Sukta 2.35
अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः । सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥
अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑: । सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नै॒: परि॑ वन्द ऋ॒ग्भिः ॥
asmái bahūnā́m avamā́ya sákhyē yajñáir vidhema námasā havírbhiḥ | sáṃ sā́nu mārjmi dídhiṣāmi bílmair dadhā́my ánnaiḥ pári vande ṛ́g-bhiḥ ||
To him—friend even of the many and the lowly—we would do sacrifice with yajñas, with reverence, with offerings. I cleanse the summit; I set the supports with firm props; I place nourishment, and I encompass him with hymns of praise.
अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय॑ । सख्ये॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ । सम् । सानु॑ । मार्ज्मि॑ । दिधि॑षामि । बिल्मैः॑ । दधा॑मि । अन्नैः॑ । परि॑ । व॒न्दे॒ । ऋ॒क्ऽभिः ॥अस्मै । बहूनाम् । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा । हविःभिः । सम् । सानु । मार्ज्मि । दिधिषामि । बिल्मैः । दधामि । अन्नैः । परि । वन्दे । ऋक्भिः ॥asmai | bahūnām | avamāya | sakhye | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ | dadhāmi | annaiḥ | pari | vande | ṛk-bhiḥ