Sukta 2.35
हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥
हिर॑ण्यरूप॒: स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः । हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥
híraṇya-rūpaḥ sá híraṇya-sandṛg apā́ṃ napā́t séd u híraṇya-varṇaḥ | híraṇyayāt pári yóner niṣádya híraṇya-dā́ dádati ánnam asmai ||
Golden in form, golden in vision—Apāṃ Napāt, yes, golden in hue. Seated around the golden womb, the givers of gold bestow nourishment to him.
हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊँ॒ इति॑ । हिर॑ण्यऽवर्णः । हि॒र॒ण्यया॒त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥हिरण्यरूपः । सः । हिरण्यसन्दृक् । अपाम् । नपात् । सः । इत् । ऊँ इति । हिरण्यवर्णः । हिरण्ययात् । परि । योनेः । निसद्य । हिरण्यदाः । ददति । अन्नम् । अस्मै ॥hiraṇya-rūpaḥ | saḥ | hiraṇya-sandṛk | apām | napāt | saḥ | it | oṃ iti | hiraṇya-varṇaḥ | hiraṇyayāt | pari | yoneḥ | ni-sadya | hiraṇya-dāḥ | dadati | annam | asmai