Sukta 2.34
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् । अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥
यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म् । अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥
yayā́ radhráṃ pā́rayathā́ty aṃhó yayā́ nidó muñcáthá vanditā́ram | arvā́cī sā́ maruto yā́ va ūtír ó ṣú vāśréva sumatír jigātu ||
By that aid with which you carry the broken one across beyond distress, by which you release the one hemmed in by blame though he is worthy of praise—let that help of yours, O Maruts, turn towards us; let the right mind come to us, like a lowing call that draws the herd of rays near.
यया॑ । र॒ध्रम् । पा॒रय॑थ । अति॑ । अंहः॑ । यया॑ । नि॒दः । मु॒ञ्चथ॑ । व॒न्दि॒तार॑म् । अ॒र्वाची॑ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति॑ । सु । वा॒श्राऽइ॑व । सु॒ऽम॒तिः । जि॒गा॒तु॒ ॥यया । रध्रम् । पारयथ । अति । अंहः । यया । निदः । मुञ्चथ । वन्दितारम् । अर्वाची । सा । मरुतः । या । वः । ऊतिः । ओ इति । सु । वाश्राइव । सुमतिः । जिगातु ॥yayā | radhram | pārayatha | ati | aṃhaḥ | yayā | nidaḥ | muñcatha | vanditāram | arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ | o iti | su | vāśrāiva | su-matiḥ | jigātu