Sukta 2.31
उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत । त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥
उ॒त व॒: शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त । त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥
utá vaḥ śáṃsam uśíjām iva śmasy áhir budhnyò 'já ékapād utá | tritá ṛbhu-kṣā́ḥ savitā́ cáno dadhé 'pā́ṃ nápād āśu-hemā dhiyā́ śámi ||
And I speak your praise as the kindling-priests do: Ahi Budhnya, the Unborn One-footed; and Trita, and Ṛbhukṣan, and Savitṛ set it in place for us; and Apām Napāt, swift-golden, in the thought brings peace and a right settling.
उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त । त्रि॒तः । ऋ॒भु॒ऽक्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥उत । वः । शंसम् । उशिजाम्इव । श्मसि । अहिः । बुध्न्यः । अजः । एकपात् । उत । त्रितः । ऋभुक्षाः । सविता । चनः । दधे । अपाम् । नपात् । आशुहेमा । धिया । शमि ॥uta | vaḥ | śaṃsam | uśijām-iva | śmasi | ahiḥ | budhnyaḥ | aja | eka-pāt | uta | tritaḥ | ṛbhu-kṣāḥ | savitā | canaḥ | dadhe | apām | napāt | āśu-hemā | dhiyā | śami