Sukta 2.31
उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा । स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ । स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वच॑: स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥
utá tyé devī́ subhágē mithū-dṛ́śo uṣásā-náktā jágatām api-júvā | stuṣé yád vāṃ pṛthivi návyasā vácas sthātúś ca váyas trí-vayā upa-stíre ||
And those two goddesses, the fortunate pair with one vision—Dawn and Night—who drive forward all that moves: I affirm you when, O Earth, with a newer word, the standing being and the winged powers of the threefold life spread themselves as a bed (a foundation) for your increase.
उ॒त । त्ये । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मिथु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ । स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥उत । त्ये । देवी इति । सुभगे इति सुभगे । मिथुदृशा । उषसानक्ता । जगताम् । अपिजुवा । स्तुषे । यत् । वाम् । पृथिवि । नव्यसा । वचः । स्थातुः । च । वयः । त्रिवयाः । उपस्तिरे ॥uta | tye | devī iti | subhageitisu-bhage | mithu-dṛśā | uṣasānaktā | jagatām | api-juvā | stuṣe | yat | vām | pṛthivi | navyasā | vacaḥ | sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire