Sukta 2.31
एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् । श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥
ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् । श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥
etā́ vo vaśmy údyatā yajatrā́ átakṣann ā́yavo návyase sám | śravasyávo vā́jaṃ cakānā́ḥ saptír ná rathyó áha dhī́tim aśyāḥ ||
These words I shape and set forth for you, O adorable powers; the seers have fashioned them anew into a harmony. Seeking the inspired recognition and desiring the plenitude of force, may we attain the thought—like a well-yoked steed fit for the chariot—swift in the road of the journey.
ए॒ता । वः॒ । व॒श्मि॒ । उ॒त्ऽय॑ता । य॒ज॒त्राः॒ । अत॑क्षन् । आ॒यवः॑ । नव्य॑से । सम् । श्र॒व॒स्यवः॑ । वाज॑म् । च॒का॒नाः । सप्तिः॑ । न । रथ्यः॑ । अह॑ । धी॒तिम् । अ॒श्याः॒ ॥एता । वः । वश्मि । उत्यता । यजत्राः । अतक्षन् । आयवः । नव्यसे । सम् । श्रवस्यवः । वाजम् । चकानाः । सप्तिः । न । रथ्यः । अह । धीतिम् । अश्याः ॥etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ | atakṣan | āyavaḥ | navyase | sam | śravasyavaḥ | vājam | cakānāḥ | saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ