Sukta 2.31
उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् । इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभि॑: स॒जोषा॑ जूजुव॒द्रथ॑म् । इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥
utá syá devó bhúvanasya sakṣáṇis tváṣṭā gnā́bhiḥ sajoṣā́ jūjuvad rátham | iḷā́ bhágo bṛháddivóta ródasī pūṣā́ puráṃdhir aśvínāv ádha pátī ||
And that divine Fashioner, the upholder of the world, Tvaṣṭṛ, with the knowing powers in one accord, sets the chariot in motion. Iḷā and Bhaga, the wide Heaven and the two Worlds, Pūṣan and Purandhi, and then the two Lords, the Aśvins—may all these powers take their place in our ordered movement.
उ॒त । स्यः । दे॒वः । भुव॑नस्य । स॒क्षणिः॑ । त्वष्टा॑ । ग्नाभिः॑ । स॒ऽजोषाः॑ । जू॒जु॒व॒त् । रथ॑म् । इळा॑ । भगः॑ । बृ॒ह॒त्ऽदि॒वा । उ॒त । रोद॑सी॒ इति॑ । पू॒षा । पुर॑म्ऽधिः । अ॒श्विनौ॑ । अध॑ । पती॒ इति॑ ॥उत । स्यः । देवः । भुवनस्य । सक्षणिः । त्वष्टा । ग्नाभिः । सजोषाः । जूजुवत् । रथम् । इळा । भगः । बृहत्दिवा । उत । रोदसी इति । पूषा । पुरम्धिः । अश्विनौ । अध । पती इति ॥uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ | tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham | iḷā | bhagaḥ | bṛhat-divā | uta | rodasī iti | pūṣā | puram-dhiḥ | aśvinau | adha | patī iti