Sukta 2.31
उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः । अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतु॑: । अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभీ॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥
utá syá na índro viśvácarṣaṇir diváḥ śárdhena mārútena sukrátuḥ | ánu nú sthāty avṛkā́bhir ūtíbhī ráthaṃ mahé sánaye vā́ja-sātaye ||
And Indra too, the power who works for all men, with the host from heaven—the Maruts—and with a luminous will, stands following us with protections that do not betray; for the great winning, for the attainment of the plenitude of force, he establishes the chariot.
उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ । अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥उत । स्यः । नः । इन्द्रः । विश्वचर्षणिः । दिवः । शर्धेन । मारुतेन । सुक्रतुः । अनु । नु । स्थाति । अवृकाभिः । ऊतिभिः । रथम् । महे । सनये । वाजसातये ॥uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ | divaḥ | śardhena | mārutena | su-kratuḥ | anu | nu | sthāti | avṛkābhiḥ | ūti-bhiḥ | ratham | mahe | sanaye | vāja-sātaye