Sukta 2.31
अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् । यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् । यदा॒शव॒: पद्या॑भि॒स्तित्र॑तो॒ रज॑: पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभि॑: ॥
ádha smā na údavātā sajoṣaso ráthaṃ devāso abhí víkṣu vāja-yúm | yád āśávaḥ pádyābhis títrataḥ rájaḥ pṛthivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ ||
Then indeed, for us, O gods who are of one consent, lift up the chariot that wins the plenitude of force among the clans. When the swift powers, with their steps, traverse the dust upon the ridge of earth, they strike forward with their hands—making the path ready for the victory of the journey.
अध॑ । स्म॒ । नः॒ । उत् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । रथ॑म् । दे॒वा॒सः॒ । अ॒भि । वि॒क्षु । वा॒ज॒ऽयुम् । यत् । आ॒शवः॑ । पद्या॑भिः । तित्र॑तः । रजः॑ । पृ॒थि॒व्याः । सानौ॑ । जङ्घ॑नन्त । पा॒णिऽभिः॑ ॥अध । स्म । नः । उत् । अवत । सजोषसः । रथम् । देवासः । अभि । विक्षु । वाजयुम् । यत् । आशवः । पद्याभिः । तित्रतः । रजः । पृथिव्याः । सानौ । जङ्घनन्त । पाणिभिः ॥adha | sma | naḥ | ut | avata | sa-joṣasaḥ | ratham | devāsaḥ | abhi | vikṣu | vāja-yum | yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ | pṛthivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ