Sukta 2.31
अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा । प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षद॑: ॥
asmā́kaṃ mitrā́varuṇā́vataṃ rátham ādityái rudráir vásubhiḥ sacā́bhuvā́ | prá yád váyo ná paptán vásmanaḥ pári śravasyávo hṛ́ṣīvanto vana-ṛ́sadaḥ ||
O Mitra and Varuṇa, uphold for us the chariot of the journey—together with the Ādityas, the Rudras, and the Vasus who move in one accord. When our seeking energies spring forward like birds around their nest-home, may they become glad with the joy of the vital powers and take their seat in the wide-wood of growth (the field of manifestation).
अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ । प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑वन्तः । व॒न॒ऽसदः॑ ॥अस्माकम् । मित्रावरुणा । अवतम् । रथम् । आदित्यैः । रुद्रैः । वसुभिः । सचाभुवा । प्र । यत् । वयः । न । पप्तन् । वस्मनः । परि । श्रवस्यवः । हृषीवन्तः । वनसदः ॥asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | śravasyavaḥ | hṛṣīvantaḥ | vana-sadaḥ