Sukta 2.3
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥
पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथ॑: ॥
piśáṅga-rūpaḥ su-bháro vayaḥ-dhā́ḥ śruṣṭī́ vīró jā́yate devá-kāmaḥ | prajā́ṃ tvaṣṭā́ ví ṣyatu nā́bhim asmè áthā devā́nām ápy etu pā́thaḥ ||
Of tawny-luminous form, well-bearing and a holder of the powers of life, the hero is born—obedient in hearing and desiring the Divine. May Tvaṣṭṛ spread out the progeny and widen for us the navel-centre (the inner seat of formation); then may the path toward the Gods open and come near.
पि॒शङ्ग॑ऽरूपः । सु॒ऽभरः॑ । व॒यः॒ऽधाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वऽका॑मः । प्र॒ऽजाम् । त्वष्टा॑ । वि । स्य॒तु॒ । नाभि॑म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना॑म् । अपि॑ । ए॒तु॒ । पाथः॑ ॥पिशङ्गरूपः । सुभरः । वयःधाः । श्रुष्टी । वीरः । जायते । देवकामः । प्रजाम् । त्वष्टा । वि । स्यतु । नाभिम् । अस्मे इति । अथ । देवानाम् । अपि । एतु । पाथः ॥piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ | śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ | pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti | atha | devānām | api | etu | pāthaḥ