Sukta 2.3
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥
सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥
sárasvatī sādháyantī dhíyaṃ na iḷā́ devī́ bhā́ratī viśvá-tūrtiḥ | tísro devī́ḥ svadháyā barhír idám acchídraṃ pāntu śaráṇaṃ niṣádya ||
Sarasvatī, accomplishing our inspired thought; and Ilā the goddess, Bhāratī who brings the all-fulfilling movement—these three goddesses, by their own sustaining power, taking their seat on this sacred grass, may guard for us the unbroken refuge.
सर॑स्वती । सा॒धय॑न्ती । धिय॑म् । नः॒ । इळा॑ । दे॒वी । भार॑ती । वि॒श्वऽतू॑र्तिः । ति॒स्रः । दे॒वीः । स्व॒धया॑ । ब॒र्हिः । आ । इ॒दम् । अच्छि॑द्रम् । पा॒न्तु॒ । श॒र॒णम् । नि॒ऽसद्य॑ ॥सरस्वती । साधयन्ती । धियम् । नः । इळा । देवी । भारती । विश्वतूर्तिः । तिस्रः । देवीः । स्वधया । बर्हिः । आ । इदम् । अच्छिद्रम् । पान्तु । शरणम् । निसद्य ॥sarasvatī | sādhayantī | dhiyam | naḥ | iḷā | devī | bhāratī | viśva-tūrtiḥ | tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | śaraṇam | ni-sadya