Sukta 2.3
वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः । त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥
वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः । त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्य॑: शमि॒तोप॑ ह॒व्यम् ॥
vánaspátir ava-sṛjánn úpa sthād agnír havíḥ sūdayāti prá dhī́bhiḥ | tridhā́ sámaktaṃ nayatu prajā́nán devébhyo daívyáḥ śamitópa havyám ||
May Vanaspati, releasing (the offering-wood), stand near; and Agni, with our awakened thoughts, prepare the oblation. Knowing the right order, may the divine Shamitṛ lead the offering—well-mixed in threefold ways—up to the Gods.
वन॒स्पतिः॑ । अ॒व॒ऽसृ॒जन् । उप॑ । स्था॒त् । अ॒ग्निः । ह॒विः । सू॒द॒या॒ति॒ । प्र । धी॒भिः । त्रिधा॑ । सम्ऽअ॑क्तम् । न॒य॒तु॒ । प्र॒ऽजा॒नन् । दे॒वेभ्यः॒ । दैव्यः॑ । श॒मि॒ता । उप॑ । ह॒व्यम् ॥वनस्पतिः । अवसृजन् । उप । स्थात् । अग्निः । हविः । सूदयाति । प्र । धीभिः । त्रिधा । सम्अक्तम् । नयतु । प्रजानन् । देवेभ्यः । दैव्यः । शमिता । उप । हव्यम् ॥vanaspatiḥ | ava-sṛjan | upa | sthāt | agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ | tridhā | sam-aktam | nayatu | pra-jānan | devebhyaḥ | daivyaḥ | śamitā | upa | havyam