Sukta 2.3
दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा । देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥
दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षत॒: समृ॒चा व॒पुष्ट॑रा । दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥
daivyā́ hótārā prathamā́ vidúṣṭara ṛjú yakṣataḥ sám ṛcā́ vapúṣṭarā | devā́n yájantāv ṛtúthā sám añjató nā́bhā pṛthivyā́ ádhi sā́nuṣu tríṣu ||
The two divine Hotars, foremost and more knowing, sacrifice straight with the hymn, more perfect in form. Offering to the gods according to the seasons, they harmonize at the navel of the earth, upon her three heights.
दैव्या॑ । होता॑रा । प्र॒थ॒मा । वि॒दुःऽत॑रा । ऋ॒जु । य॒क्ष॒तः॒ । सम् । ऋ॒चा । व॒पुःऽत॑रा । दे॒वान् । यज॑न्तौ । ऋ॒तु॒ऽथा । सम् । अ॒ञ्ज॒तः॒ । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । सानु॑षु । त्रि॒षु ॥दैव्या । होतारा । प्रथमा । विदुःतरा । ऋजु । यक्षतः । सम् । ऋचा । वपुःतरा । देवान् । यजन्तौ । ऋतुथा । सम् । अञ्जतः । नाभा । पृथिव्याः । अधि । सानुषु । त्रिषु ॥daivyā | hotārā | prathamā | viduḥ-tarā | ṛju | yakṣataḥ | sam | ṛcā | vapuḥ-tarā | devān | yajantau | ṛtu-thā | sam | añjataḥ | nābhā | pṛthivyāḥ | adhi | sānuṣu | triṣu