Sukta 2.3
वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥
वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः । व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥
ví śrayantām urviyā́ hū́yamānā dvā́ro devī́ḥ suprāyaṇā́ namóbhīḥ | vyácasvatīr ví prathantām ajuryā́ varṇáṃ punānā́ yaśásaṃ su-vī́ram ||
Let the divine Doors, called with homage, open wide in their vastness, leading well. Let them spread out, full of free space, unaging—purifying their radiant form, bringing fame and heroic force.
वि । श्र॑यन्ताम् । उ॒र्वि॒या । हू॒यमा॑नाः । द्वारः॑ । दे॒वीः । सु॒प्र॒ऽअ॒य॒नाः । नमः॑ऽभिः । व्यच॑स्वतीः । वि । प्र॒थ॒न्ता॒म् । अ॒जु॒र्याः । वर्ण॑म् । पु॒ना॒नाः । य॒शस॑म् । सु॒ऽवीर॑म् ॥वि । श्रयन्ताम् । उर्विया । हूयमानाः । द्वारः । देवीः । सुप्रअयनाः । नमःभिः । व्यचस्वतीः । वि । प्रथन्ताम् । अजुर्याः । वर्णम् । पुनानाः । यशसम् । सुवीरम् ॥vi | śrayantām | urviyā | hūyamānāḥ | dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ | vyacasvatīḥ | vi | prathantām | ajuryāḥ | varṇam | punānāḥ | yaśasam | su-vīram