Sukta 2.3
देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् । घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥
देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥
déva barhír várdhamānaṃ su-vī́raṃ stīrṇáṃ rāyé su-bháraṃ vedy ásyām | ghṛténa ā́ktaṃ vasavaḥ sīdatédaṃ víśve devā ādityā yajñíyāsaḥ ||
O divine ones, the sacred grass is growing, rich in heroic force, spread for plenitude, well-bearing on this altar-seat. Anointed with clarified light—sit here, O Vasus; all you gods, O Ādityas worthy of the sacrifice.
देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् । घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥देव । बर्हिः । वर्धमानम् । सुवीरम् । स्तीर्णम् । राये । सुभरम् । वेदी इति । अस्याम् । घृतेन । अक्तम् । वसवः । सीदत । इदम् । विश्वे । देवाः । आदित्याः । यज्ञियासः ॥deva | barhiḥ | vardhamānam | su-vīram | stīrṇam | rāye | su-bharam | vedī iti | asyām | ghṛtena | aktam | vasavaḥ | sīdata | idam | viśve | devāḥ | ādityāḥ | yajñiyāsaḥ