Sukta 2.3
घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥
ghṛtáṃ mimikṣe ghṛtám asya yóniḥ ghṛté śritó ghṛtám v asya dhā́ma | anu-svadhám ā́ vaha mā́dayasva svā́hā-kṛtaṃ vṛṣabha vakṣi havyám ||
Ghee is mingled; ghee is his womb; in ghee he is established, and ghee is his home. Bring (the offering) according to the right delight of your own law; grow intoxicated in it: O bull of power, carry the oblation that is made with svāhā.
घृ॒तम् । मि॒मि॒क्षे॒ । घृ॒तम् । अ॒स्य॒ । योनिः॑ । घृ॒ते । श्रि॒तः । घृ॒तम् । ऊँ॒ इति॑ । अ॒स्य॒ । धाम॑ । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व । स्वाहा॑ऽकृतम् । वृ॒ष॒भ॒ । व॒क्षि॒ । ह॒व्यम् ॥घृतम् । मिमिक्षे । घृतम् । अस्य । योनिः । घृते । श्रितः । घृतम् । ऊँ इति । अस्य । धाम । अनुस्वधम् । आ । वह । मादयस्व । स्वाहाकृतम् । वृषभ । वक्षि । हव्यम् ॥ghṛtam | mimikṣe | ghṛtam | asya | yoniḥ | ghṛte | śritaḥ | ghṛtam | oṃ iti | asya | dhāma | anu-svadham | ā | vaha | mādayasva | svāhākṛtam | vṛṣabha | vakṣi | havyam