Sukta 2.29
हये देवा यूयमिदापयः स्थ ते मृळत नाधमानाय मह्यम् । मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥
ह॒ये दे॑वा यू॒यमिदा॒पय॑: स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् । मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥
hayé devā yūyám id ā́payaḥ stha té mṛḷata nā́dhamānāya máhyam | mā́ vo rátho madhyamavā́ḷ ṛté bhūn mā́ yuṣmā́vatsv ā́piṣu śramiṣma ||
O gods, indeed you are the waters of refreshment; be gracious to me who labors and is pressed within. Let not your chariot miss the middle way of the Truth; let us not grow weary in the attainments that are with you.
ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः॑ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध॑मानाय । मह्य॑म् । मा । वः॒ । रथः॑ । म॒ध्य॒म॒ऽवाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव॑त्ऽसु । आ॒पिषु॑ । श्र॒मि॒ष्म॒ ॥हये । देवाः । यूयम् । इत् । आपयः । स्थ । ते । मृळत । नाधमानाय । मह्यम् । मा । वः । रथः । मध्यमवाट् । ऋते । भूत् । मा । युष्मावत्सु । आपिषु । श्रमिष्म ॥haye | devāḥ | yūyam | it | āpayaḥ | stha | te | mṛḷata | nādhamānāya | mahyam | mā | vaḥ | rathaḥ | madhyama-vāṭ | ṛte | bhūt | mā | yuṣmāvat-su | āpiṣu | śramiṣma