Sukta 2.29
यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत । अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥
यू॒यं दे॑वा॒: प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत । अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥
yūyáṃ devāḥ prámatir yūyám ójo yūyáṃ dvéṣāṃsi sanutár yuyota | abhikṣattā́ro abhí ca kṣámadhvam adyā́ ca no mṛḷáyatāparam ca ||
You, O gods, are the forward wisdom; you are the force. You drive away our hatreds from afar. As overlords, be patient with us; today and hereafter, be gracious and heal us.
यू॒यम् । दे॒वाः॒ । प्रऽम॑तिः । यू॒यम् । ओजः॑ । यू॒यम् । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ । अ॒भि॒ऽक्ष॒त्तारः॑ । अ॒भि । च॒ । क्षम॑ध्वम् । अ॒द्य । च॒ । नः॒ । मृ॒ळय॑त । अ॒प॒रम् । च॒ ॥यूयम् । देवाः । प्रमतिः । यूयम् । ओजः । यूयम् । द्वेषांसि । सनुतः । युयोत । अभिक्षत्तारः । अभि । च । क्षमध्वम् । अद्य । च । नः । मृळयत । अपरम् । च ॥yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ | yūyam | dveṣāṃsi | sanutaḥ | yuyota | abhi-kṣattāraḥ | abhi | ca | kṣamadhvam | adya | ca | naḥ | mṛḷayata | aparam | ca