Sukta 2.29
धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः । शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः ॥
धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वाग॑: । शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥
dhṛtávratā ādítyā íṣirā āré mátkarta rahasū́r ivā́gaḥ | śṛṇvató vo váruṇa mítra devā bhadrásya vidvā́n ávase huve vaḥ ||
O Ādityas, holders of the steadfast law, impetuous powers—keep far from me the secret fault that moves like a hidden impulse. Hearing, O divine Varuṇa and Mitra, knowing the good, I call you for help.
धृत॑ऽव्रताः । आदि॑त्याः । इषि॑राः । आ॒रे । मत् । क॒र्त॒ । र॒ह॒सूःऽइ॑व । आगः॑ । शृ॒ण्व॒तः । वः॒ । वरु॑ण । मित्र॑ । देवाः॑ । भ॒द्रस्य॑ । वि॒द्वान् । अव॑से । हु॒वे॒ । वः॒ ॥धृतव्रताः । आदित्याः । इषिराः । आरे । मत् । कर्त । रहसूःइव । आगः । शृण्वतः । वः । वरुण । मित्र । देवाः । भद्रस्य । विद्वान् । अवसे । हुवे । वः ॥dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ | śṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ