Sukta 2.28
पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् । अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥
पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजम् । अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥
pára ṛṇā́ sāvīr ádha mát-kṛtāni mā́haṃ rājan anyá-kṛtena bhójam | avy-uṣṭā́ ín nu bhū́yasīr uṣā́sa ā́ no jīvā́n varuṇa tā́su śā́dhi ||
Cast away the debts (burdens) and then those faults made by me; O King, let me not suffer for what another has done. Let the Dawns be yet more unwithheld for us; bring us to living, O Varuṇa—set us to right accomplishment within those awakenings.
परा॑ । ऋ॒णा । सा॒वीः॒ । अध॑ । मत्ऽकृ॑तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्यऽकृ॑तेन । भो॒ज॒म् । अवि॑ऽउष्टाः । इत् । नु । भूय॑सीः । उ॒षसः॑ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु॑ । शा॒धि॒ ॥परा । ऋणा । सावीः । अध । मत्कृतानि । मा । अहम् । राजन् । अन्यकृतेन । भोजम् । अविउष्टाः । इत् । नु । भूयसीः । उषसः । आ । नः । जीवान् । वरुण । तासु । शाधि ॥parā | ṛṇā | sāvīḥ | adha | mat-kṛtāni | mā | aham | rājan | anya-kṛtena | bhojam | av i-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ | ā | naḥ | jīvān | varuṇa | tāsu | śādhi