Sukta 2.28
यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह । स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥
यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ । स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥
yó me rájan yújyo vā sákhā vā svápne bhayáṃ bhīráve máhyam ā́ha | stenó vā yó dípsati no vṛ́ko vā tváṃ tásmād varuṇa pāhy asmā́n ||
O King Varuṇa, whether it is one bound to me in service or even a friend who, in dream, speaks fear into my timid being; whether it is a thief who seeks to steal our inner riches or a wolf-like force that would devour—do you guard us from that.
यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ । स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह । स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान् ॥yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā | svapne | bhayam | bhīrave | mahyam | āha | stenaḥ | vā | yaḥ | dipsati | naḥ | vṛkaḥ | vā | tvam | tasmāt | varuṇa | pāhi | asmān