Sukta 2.28
नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम । त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥
नम॑: पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम । त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥
námaḥ purā́ te varuṇóta nū́nám utā́paraṃ tuvi-jāta bravāma | tvé hí kaṃ párvate ná śritā́ny ápra-cyutāni dūḷábha vratā́ni ||
Homage to thee, O Varuṇa, of old and now and again hereafter, O mightily born. For in thee, as on a mountain, are set firm the unshakable, hard-to-violate laws—stable foundations for the soul’s right becoming.
नमः॑ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒ऽजा॒त॒ । ब्र॒वा॒म॒ । त्वे इति॑ । हि । क॒म् । पर्व॑ते । न । श्रि॒तानि॑ । अप्र॑ऽच्युतानि । दुः॒ऽद॒भ॒ । व्र॒तानि॑ ॥नमः । पुरा । ते । वरुण । उत । नूनम् । उत । अपरम् । तुविजात । ब्रवाम । त्वे इति । हि । कम् । पर्वते । न । श्रितानि । अप्रच्युतानि । दुःदभ । व्रतानि ॥namaḥ | purā | te | varuṇa | uta | nūnam | uta | aparam | tuvi-jāta | bravāma | tve iti | hi | kam | parvate | na | śritāni | apra-cyutāni | duḥ-dabha | vratāni