Sukta 2.28
मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति । मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेन॑: कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ । मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृध॑: शिश्रथो जी॒वसे॑ नः ॥
mā́ no vadháir varuṇa yé ta iṣṭā́v énaḥ kṛṇvántam asura bhrīṇánti | mā́ jyótiṣaḥ pra-vasáthāni ganma ví ṣū́ mṛ́dhaḥ śiśratho jīváse naḥ ||
Do not strike us with the slayings, O Varuṇa, when men in thy service accuse the doer of fault, O Asura. Let us not go to the far abodes away from the light; loosen utterly the hostile powers, so that we may live.
मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः॑ । कृ॒ण्वन्त॑म् । अ॒सु॒र॒ । भ्री॒णन्ति॑ । मा । ज्योति॑षः । प्र॒ऽव॒स॒थानि॑ । ग॒न्म॒ । वि । सु । मृधः॑ । शि॒श्र॒थः॒ । जी॒वसे॑ । नः॒ ॥मा । नः । वधैः । वरुण । ये । ते । इष्टौ । एनः । कृण्वन्तम् । असुर । भ्रीणन्ति । मा । ज्योतिषः । प्रवसथानि । गन्म । वि । सु । मृधः । शिश्रथः । जीवसे । नः ॥mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti | mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | śiśrathaḥ | jīvase | naḥ