Sukta 2.28
प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति । न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥
प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति । न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥
prá sīm ādityó asṛjad vi-dhártāṃ ṛtáṃ síndhavo váruṇasya yanti | ná śrāmyanti ná ví mucanty eté váyo ná paptū raghu-yā́ pári-jman ||
The Āditya, the disposer, has sent them forth: the rivers move in the Truth; they go in the way of Varuṇa. They do not tire, they do not loosen their course; like birds they fly swift in their circling journey—obedient to the law within movement.
प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒ऽध॒र्ता । ऋ॒तम् । सिन्ध॑वः । वरु॑णस्य । य॒न्ति॒ । न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः॑ । न । प॒प्तुः॒ । र॒घु॒ऽया । परि॑ऽज्मन् ॥प्र । सीम् । आदित्यः । असृजत् । विधर्ता । ऋतम् । सिन्धवः । वरुणस्य । यन्ति । न । श्राम्यन्ति । न । वि । मुचन्ति । एते । वयः । न । पप्तुः । रघुया । परिज्मन् ॥pra | sīm | ādityaḥ | asṛjat | vi-dhartā | ṛtam | sindhavaḥ | varuṇasya | yanti | na | śrāmyanti | na | vi | mucanti | ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman