Sukta 2.28
तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः । यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥
तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः । यू॒यं न॑: पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥
táva syāma puru-vī́rasya śármann uru-śáṃsasya varuṇa praṇétaḥ | yūyáṃ naḥ putrā́ aditer adabdhā́ abhí kṣamadhvaṃ yújyāya devā́ḥ ||
May we be in thy shelter, O Varuṇa, leader of the wide-praised, the many-heroed. You, the unbetrayable sons of Aditi, bear with us and uphold us for our right yoking—so the powers may be joined in the true work.
अव॑ । स्या॒म॒ । पु॒रु॒ऽवीर॑स्य । शर्म॑न् । उ॒रु॒ऽशंस॑स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या॑य । दे॒वाः॒ ॥अव । स्याम । पुरुवीरस्य । शर्मन् । उरुशंसस्य । वरुण । प्रनेतरिति प्रनेतः । यूयम् । नः । पुत्राः । अदितेः । अदब्धाः । अभि । क्षमध्वम् । युज्याय । देवाः ॥ava | syāma | puru-vīrasya | śarman | uru-śaṃsasya | varuṇa | pranetarit ipra-netaḥ | yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ