Sukta 2.28
तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः । उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥
तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांस॑: । उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥
táva vraté su-bhágāsaḥ syāma svā́dhyo varuṇa tuṣṭuvā́ṃsaḥ | upā́yana uṣásāṃ gó-matīnām agnáyo ná jaramāṇā ánu dyū́n ||
In thy law (vrata), O Varuṇa, may we become fortunate and well-founded in our own right discipline, praising thee. May we come near to the Dawns that are rich in rays (cows of light), and like unfailing fires may we follow the days without growing old in the soul.
तव॑ । व्र॒ते । सु॒ऽभगा॑सः । स्या॒म॒ । सु॒ऽआ॒ध्यः॑ । व॒रु॒ण॒ । तु॒स्तु॒ऽवांसः॑ । उ॒प॒ऽअय॑ने । उ॒षसा॑म् । गोऽम॑तीनाम् । अ॒ग्नयः॑ । न । जर॑माणाः । अनु॑ । द्यून् ॥तव । व्रते । सुभगासः । स्याम । सुआध्यः । वरुण । तुस्तुवांसः । उपअयने । उषसाम् । गोमतीनाम् । अग्नयः । न । जरमाणाः । अनु । द्यून् ॥tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṃsaḥ | upa-ayane | uṣasām | go--matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn