Sukta 2.28
इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना । अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥
इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना । अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरे॑: ॥
idáṃ kavér ādityásya sva-rā́jo víśvāni sā́nty abhy àstu mahnā́ | áti yo mandró yajáthāya deváḥ su-kīrtíṃ bhíkṣe váruṇasya bhū́reḥ ||
This is the word of the seer of the Āditya, the self-king: may it, by its greatness, encompass all the harmonies that are. I ask from Varuṇa the abundant One a fair fame—an inner right renown—so that the glad God may surpass (all obstacles) for the sacrifice of the soul.
इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना । अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥इदम् । कवेः । आदित्यस्य । स्वराजः । विश्वानि । सन्ति । अभि । अस्तु । मह्ना । अति । यः । मन्द्रः । यजथाय । देवः । सुकीर्तिम् । भिक्षे । वरुणस्य । भूरेः ॥idam | kaveḥ | ādityasya | sva-rājaḥ | viśvāni | santi | abhi | astu | mahnā | ati | yaḥ | mandraḥ | yajathāya | devaḥ | su-kīrtim | bhikṣe | varuṇasya | bhūreḥ