Sukta 2.27
तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् । ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥
ति॒स्रो भूमी॑र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥
tísro bhū́mīr dhārayant rī́ṃr uta dyū́n trī́ṇi vratā́ vidáthe antár eṣām | ṛténa ādityā́ máhi vo mahitváṃ tád aryaman varuṇa mitra cā́ru ||
You uphold the three earths and also the three luminous heavens; within your assembly your triple laws are set. By ṛta, O Ādityas, great is your greatness—this is a beautiful working of you, O Aryaman, Varuṇa, Mitra.
ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् । ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥तिस्रः । भूमीः । धारयन् । त्रीन् । उत । द्यून् । त्रीणि । व्रता । विदथे । अन्तः । एषाम् । ऋतेन । आदित्याः । महि । वः । महित्वम् । तत् । अर्यमन् । वरुण । मित्र । चारु ॥tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn | trīṇi | vratā | vidathe | antaḥ | eṣām | ṛtena | ādityāḥ | mahi | vaḥ | mahi-tvam | tat | aryaman | varuṇa | mitra | cāru