Sukta 2.27
पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः । बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभि॑: । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥
pípārtu no áditiḥ rā́ja-putrā́ ati dveṣā́ṃsy aryamā́ su-gébhīḥ | bṛhán mitrásya váruṇasya śárma úpa syāma puru-vīrā́ áriṣṭāḥ ||
May Aditi, the royal-born Mother of wideness, fill and foster us and carry us beyond all hatreds; may Aryaman lead us by good paths. May we come near to the vast shelter of Mitra and Varuṇa, becoming many in heroic energies and untouched by harm.
पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥पिपर्तु । नः । अदितिः । राजपुत्रा । अति । द्वेषांसि । अर्यमा । सुगेभिः । बृहत् । मित्रस्य । वरुणस्य । शर्म । उप । स्याम । पुरुवीराः । अरिष्टाः ॥pipartu | naḥ | aditiḥ | rāja-putrā | ati | dveṣāṃsi | aryamā | su-gebhiḥ | bṛhat | m itrasya | varuṇasya | śarma | upa | syāma | puru-vīrāḥ | ariṣṭāḥ