Sukta 2.27
सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति । तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥
सु॒गो हि वो॑ अर्यमन्मित्र॒ पन्था॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ । तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ॥
sugó hí vo aryaman mitra pánthā anṛkṣaró varuṇa sādhúr ásti | ténādityā́ ádhi vocatā no yácchatā no duḥ-parihántu śárma ||
For yours is indeed a good path, O Aryaman and Mitra; O Varuṇa, it is firm and does not fail, it is right. By that path, O Ādityas, speak over us and govern us; grant us the shelter that drives away all hard besetments.
सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ । तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥सुगः । हि । वः । अर्यमन् । मित्र । पन्थाः । अनृक्षरः । वरुण । साधुः । अस्ति । तेन । आदित्याः । अधि । वोचत । नः । यच्छत । नः । दुःपरिहन्तु । शर्म ॥su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ | anṛkṣaraḥ | varuṇa | sādhuḥ | ast i | tena | ādityāḥ | adhi | vocata | naḥ | yacchata | naḥ | duḥ-parihantu | śarma