Sukta 2.27
विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु । युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥
वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु । यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम् ॥
vidyā́m ādityā́ ávaso vo asyá yád aryaman bhayá ā́ cin mayobhú | yuṣmā́kaṃ mitrāvaruṇā prá-nītau pári śvábhreva duritā́ni vṛjyām ||
May we know, O Ādityas, this your saving help—O Aryaman, even when fear comes upon us—your power that becomes delight. Led by you, O Mitra and Varuṇa, may we cast away our difficulties all around, as one casts them into a pit.
वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । य॒त् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु । यु॒ष्माक॑म् । मि॒त्रा॒व॒रुणा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥विद्याम् । आदित्याः । अवसः । वः । अस्य । यत् । अर्यमन् । भये । आ । चित् । मयःभु । युष्माकम् । मित्रावरुणा । प्रनीतौ । परि । श्वभ्राइव । दुःइतानि । वृज्याम् ॥vidyām | ādityāḥ | avasaḥ | vaḥ | asya | yat | aryaman | bhaye | ā | cit | mayaḥ-bhu | yuṣmākam | mitrāvaruṇā | pra-nītau | pari | śvabhrāiva | duḥ-itāni | vṛjyām