Sukta 2.27
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः । अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥
त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः । अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥
tá ādityā́sa urávo gabhīrā́ adábdhāso dípsanto bhū́ry-akṣāḥ | antáḥ paśyanti vṛjinóta sādhú sárvaṃ rājábhyaḥ paramā́ cíd ánti ||
Those Ādityas are wide and deep, not to be deceived, desiring to guard, with many eyes. They see within the crooked and the straight, the whole; even what is supreme they reach—kings who know the inner truth of things.
ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरिअक्षाः । अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राजभ्यः । परमा । चित् । अन्ति ॥te | ādityāsaḥ | uravaḥ | gabhīrāḥ | adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ | antariti | paśyanti | vṛjinā | uta | sādhu | sarvam | rāja-bhyaḥ | paramā | cit | anti