Sukta 2.27
इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त । आ॒दि॒त्यास॒: शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥
imáṃ stómam sákratavo me adyá mitró aryamā́ váruṇo juṣanta | ādityā́saḥ śúcayo dhā́ra-pūtā́ ávṛjinā anavadyā́ áriṣṭāḥ ||
May Mitra, Aryaman, and Varuṇa—strong in their will—accept today this hymn of mine. The Ādityas are pure, cleansed in the stream; without crookedness, without blame, unharmed—may they take delight in our offering of speech.
इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ । आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥इमम् । स्तोमम् । सक्रतवः । मे । अद्य । मित्रः । अर्यमा । वरुणः । जुषन्त । आदित्यासः । शुचयः । धारपूताः । अवृजिनाः । अनवद्याः । अरिष्टाः ॥imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta | ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ