Sukta 2.27
इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंश॑: ॥
imā́ gíra ādityébhyo ghṛtásnūḥ sanā́d rājábhyo juhvā́ juhomi | śṛṇótu mitró aryamā́ bhágo nas tuvijātó váruṇo dákṣo áṃśaḥ ||
These words, dripping with clarified light, I pour with the ladle of offering to the Adityas, the ancient kings. Let Mitra hear, and Aryaman, and Bhaga for us; let Varuṇa of mighty birth hear—Dákṣa and Aṃśa as well.
इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ । शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥इमाः । गिरः । आदित्येभ्यः । घृतस्नूः । सनात् । राजभ्यः । जुह्वा । जुहोमि । शृणोतु । मित्रः । अर्यमा । भगः । नः । तुविजातः । वरुणः । दक्षः । अंशः ॥imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi | śṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṃśaḥ