Sukta 2.27
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः । अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्त्स्याम ॥
या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्रा॒: पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः । अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम ॥
yā́ vo māyā́ abhi-drúhe yajatrā́ḥ pā́śā ādityā ripáve ví-cṛttāḥ | aśvī́va tā́n áti yeṣaṃ ráthena áriṣṭā urā́vā śárman syāma ||
Those powers of yours, O adorable Ādityas—your cords cut apart for the hostile—by them may we pass beyond, like swift horses with the chariot. Unharmed, in the wide shelter, may we be established in peace.
याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । यजत्राः॑ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः । अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥याः । वः । मायाः । अभिद्रुहे । यजत्राः । पाशाः । आदित्याः । रिपवे । विचृत्ताः । अश्वीइव । तान् । अति । येषम् । रथेन । अरिष्टाः । उरौ । आ । शर्मन् । स्याम ॥yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ | pāśāḥ | ādityāḥ | ripave | vi-cṛttāḥ | aśvī-iva | tān | ati | yeṣam | rathena | ariṣṭāḥ | urau | ā | śarman | syāma