Sukta 2.27
उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् । उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥
उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् । उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥
ubhḗ asmai pīpayataḥ samīcī́ divó vṛ́ṣṭiṃ su-bhágo nā́ma púṣyan | ubhā́ kṣáyāv ā́-jáyan yā́ti pṛ́tsūbhāv árdhau bhavataḥ sādhū́ asmai ||
May the two (powers) nourish him in right mutuality, fostering the rain of heaven; ‘Well-Fortune’ by name increases. Winning both dwellings, he goes to the prize in the battles; may both halves become for him effective and accomplished.
उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् । उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥उभे इति । अस्मै । पीपयतः । समीची इति सम्ईची । दिवः । वृष्टिम् । सुभगः । नाम । पुष्यन् । उभा । क्षयौ । आजयन् । याति । पृत्सु । उभौ । अर्धौ । भवतः । साधू इति । अस्मै ॥ubhe iti | asmai | pīpayataḥ | samīcī itisam-īcī | divaḥ | vṛṣṭim | su-bhagaḥ | nāma | puṣyan | ubhā | kṣayau | ājayan | yāti | pṛt-su | ubhau | ardhau | bhavataḥ | sādhū iti | asmai