Sukta 2.27
अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः । उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥
अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दाग॑: । उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥
áditē mítra váruṇóta mṛḷa yád vo vayáṃ cakṛmá kác cid ā́gaḥ | urváśyām abháyaṃ jyótiḥ índra mā́ no dīrghā́ abhí naśan támisrāḥ ||
O Aditi, Mitra, Varuṇa—be gracious, if we have done any fault against you. May we widen into the fearless Light, O Indra; let not long darknesses press upon us and destroy us.
अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥अदिते । मित्र । वरुण । उत । मृळ । यत् । वः । वयम् । चकृम । कत् । चित् । आगः । उरु । अश्याम् । अभयम् । ज्योतिः । इन्द्र । मा । नः । दीर्घाः । अभि । नशन् । तमिस्राः ॥adite | mitra | varuṇa | uta | mṛḷa | yat | vaḥ | vayam | cakṛma | kat | cit | āgaḥ | uru | aśyām | abhayam | jyotiḥ | indra | mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ