Sukta 2.27
शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥
शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीर॑: । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥
śúcir apáḥ sū́-yavasā ádabdha úpa kṣeti vṛ́ddha-vayāḥ su-vī́raḥ | nákiṣ ṭáṃ ghnanty ántito ná dūrā́d yá ādityā́nāṃ bhávati prá-nītau ||
Pure in his waters, rich in right nourishment, unharmed, he dwells near—mature in his growth, full of heroic force. None can strike him, neither from near nor far, who comes to be under the leading of the Ādityas.
शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ । नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥शुचिः । अपः । सुयवसाः । अदब्धः । उप । क्षेति । वृद्धवयाः । सुवीरः । नकिः । तम् । घ्नन्ति । अन्तितः । न । दूरात् । यः । आदित्यानाम् । भवति । प्रनीतौ ॥śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ | upa | kṣeti | vṛddha-vayāḥ | su-vīraḥ | nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt | yaḥ | ādityānām | bhavati | pra-nītau