Sukta 2.27
यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः । स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥
यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्या॑: । स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥
yó rājábhya ṛta-níbhyo dadā́śa yáṃ vardháyanti puṣṭáyaś ca nítyāḥ | sá revā́n yā́ti prathamó ráthena vasu-dā́vā vidátheṣu pra-śastáḥ ||
He who gives to the kingly upholders of ṛta, whom constant prosperities increase—he goes first in the chariot, rich in luminous plenty, a giver of the good, praised in the assemblies.
यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ । सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥यः । राजभ्यः । ऋतनिभ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । नित्याः । सः । रेवान् । याति । प्रथमः । रथेन । वसुदावा । विदथेषु । प्रशस्तः ॥yaḥ | rāja-bhyaḥ | ṛtani-bhyaḥ | dadāśa | yam | vardhayanti | puṣṭayaḥ | ca | n ityāḥ | saḥ | revān | yāti | prathamaḥ | rathena | vasu-dāvā | vidatheṣu | pra-śastaḥ