Sukta 2.27
न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा । पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥
ná dakṣiṇā́ ví cikite ná savyā́ ná prācī́nam ādityā́ nóta paścā́ | pā́kyā cid vasavo dhī́ryā cid yuṣmā́nīto abháyaṃ jyótiḥ aśyām ||
No right side is discerned, no left; neither the east nor the west, O Ādityas. Even by a childish mind or by a wise one—led by you, O Vasus/bright powers—may I attain the fearless Light.
न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा । पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥न । दक्षिणा । वि । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्चा । पाक्या । चित् । वसवः । धीर्या । चित् । युष्मानीतः । अभयम् । ज्योतिः । अश्याम् ॥na | dakṣiṇā | vi | cikite | na | savyā | na | prācīnam | ādityāḥ | na | uta | paścā | pākyā | cit | vasavaḥ | dhīryā | cit | yuṣmānītaḥ | abhayam | jyotiḥ | aśyām