Sukta 2.27
त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः । शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥
त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ता॑: । श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥
tváṃ víśveṣāṃ varuṇāsi rājā́ yé ca devā́ ásura yé ca mártāḥ | śatáṃ no rāsva śarádo vi-cákṣe 'śyāma āyū́ṃṣi su-dhítāni pū́rvā ||
You, O Varuṇa, are king of all—of the gods who are lords of being and of mortals. Grant us a hundred autumns, O wide-seeing; may we attain the well-founded spans of life that are set before us.
त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ । श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुधि॑तानि । पूर्वा॑ ॥त्वम् । विश्वेषाम् । वरुण । असि । राजा । ये । च । देवाः । असुर । ये । च । मर्ताः । शतम् । नः । रास्व । शरदः । विचक्षे । अश्याम । आयूंषि । सुधितानि । पूर्वा ॥tvam | viśveṣām | varuṇa | asi | rājā | ye | ca | devāḥ | asura | ye | ca | martāḥ | śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe | aśyāma | āyūṃṣi | sudhitāni | pūrvā