Sukta 2.26
यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः । उरुष्यतीमंहसो रक्षती रिषोंऽहोश्चिदस्मा उरुचक्रिरद्भुतः ॥
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पति॑: । उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥
yó asmai havyáir ghṛtávadbhir ávidhat prá táṃ prācā́ náyati bráhmaṇas pátiḥ | uruṣyátīm áṃhaso rákṣatī ríṣo aṃhóś cid asmai uru-cákrir ádbhutaḥ ||
Whoever has arranged for him the offerings rich with clarity and delight, him Brahmaṇaspati leads forward on the right path. He widens the safe spaces, guards from anguish and from hurt; even from constriction he protects—wonderful, far-working in his effective action.
यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ । उ॒रु॒ष्यती॑म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चित् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥यः । अस्मै । हव्यैः । घृतवत्भिः । अविधत् । प्र । तम् । प्राचा । नयति । ब्रह्मणः । पतिः । उरुष्यतीम् । अंहसः । रक्षति । रिषः । अंहोः । चित् । अस्मै । उरुचक्रिः । अद्भुतः ॥yaḥ | asmai | havyaiḥ | ghṛtavat-bhiḥ | avidhat | pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ | uruṣyatīm | aṃhasaḥ | rakṣati | riṣaḥ | aṃhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ