Sukta 2.25
इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् । जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥
índhāno agníṃ vanavad vanuṣyatáḥ kṛtá-brahmā śūśuvad rātá-havya ít | jāténa jātám áti sá prá sarsṛte yaṃ-yáṃ yújaṃ kṛṇuté bráhmaṇas-pátiḥ ||
Kindling Agni, he wins for the worshipper; having fashioned the Word, he grows intense, one whose offering is accepted. By what is born he overpasses what is born; he moves forward, and makes each and every yoke-fellow—Brahmaṇaspati, who joins the powers for the work.
इन्धा॑नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒तऽब्र॑ह्मा । शू॒शु॒व॒त् । रा॒तऽह॑व्यः । इत् । जा॒तेन॑ । जा॒तम् । अति॑ । सः । प्र । स॒र्सृ॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥इन्धानः । अग्निम् । वनवत् । वनुष्यतः । कृतब्रह्मा । शूशुवत् । रातहव्यः । इत् । जातेन । जातम् । अति । सः । प्र । सर्सृते । यम्यम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥indhānaḥ | agnim | vanavat | vanuṣyataḥ | kṛta-brahmā | śūśuvat | rāta-havyaḥ | it | jātena | jātam | ati | saḥ | pra | sarsṛte | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ