Sukta 2.24
ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना । तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥
ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥
ṛtá-jyená kṣipréṇa bráhmaṇas pátir yátra váṣṭi prá tád aśnoti dhánvanā | tásya sādhvī́r íṣavo yā́bhir ásyati nṛ-cákṣaso dṛśáye kárṇa-yonayaḥ ||
With the bowstring of Ṛta, swift, Brahmaṇaspati attains whatever he wills and drives forth; his straight arrows with which he shoots are for the seeing of men—born of the ear, they make the vision manifest.
ऋ॒तऽज्ये॑न । क्षि॒प्रेण॑ । ब्रह्म॑णः । पतिः॑ । यत्र॑ । वष्टि॑ । प्र । तर् । अ॒श्नो॒ति॒ । धन्व॑ना । तस्य॑ । सा॒ध्वीः । इष॑वः । याभिः॑ । अस्य॑ति । नृ॒ऽचक्ष॑सः । दृ॒शये॑ । कर्ण॑ऽयोनयः ॥ऋतज्येन । क्षिप्रेण । ब्रह्मणः । पतिः । यत्र । वष्टि । प्र । तर् । अश्नोति । धन्वना । तस्य । साध्वीः । इषवः । याभिः । अस्यति । नृचक्षसः । दृशये । कर्णयोनयः ॥ṛta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ | yatra | vaṣṭi | pra | tar | aśnoti | dhanvanā | tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati | nṛ-cakṣasaḥ | dṛśaye | karṇa-yonayaḥ