Sukta 2.24
ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः । ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥
ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः । ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒: षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥
ṛtā́vānaḥ prati-cákṣyānṛ́tā púner ā́ta ā́ tasthuḥ kaváyo mahás páthaḥ | té bāhúbhyāṃ dhamitám agním áśmani nákiḥ ṣó asty áraṇo jahúr hí tám ||
The possessors of Ṛta, looking back upon the untruth, stood again upon the vast path; they kindled by their arms the driven Fire in the stone—none is there to hinder, for they have truly cast it forth.
ऋ॒तऽवा॑नः । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । आ । अतः॑ । आ । त॒स्थुः॒ । क॒वयः॑ । म॒हः । प॒थः । ते॒ । बा॒हुऽभ्या॑म् । ध॒मि॒तम् । अ॒ग्निम् । अस्म॑नि । नकिः॑ । सः । अ॒स्ति॒ । अर॑णः । जु॒हुः । हि । तम् ॥ऋतवानः । प्रतिचक्ष्य । अनृता । पुनः । आ । अतः । आ । तस्थुः । कवयः । महः । पथः । ते । बाहुभ्याम् । धमितम् । अग्निम् । अस्मनि । नकिः । सः । अस्ति । अरणः । जुहुः । हि । तम् ॥ṛta-vānaḥ | prati-cakṣya | anṛtā | punaḥ | ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ | te | bāhu-bhyām | dhamitam | agnim | asmani | nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam