Sukta 2.24
अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् । ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥
अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् । ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥
abhí-nákṣanto abhí yé tám ānaśúr nidhíṃ paṇīnā́ṃ paramáṃ gúhā hitám | té vidvā́ṃsaḥ prati-cákṣyānṛ́tā púner yáta u ā́yan tád úd īyur ā́viśam ||
They who pressed on and reached that highest treasure of the Paṇis hidden in the cave—those knowers, having looked back upon the falsehood, returned from where they came and rose upward into the open wideness.
अ॒भि॒ऽनक्ष॑न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒धिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा॑ । हि॒तम् । ते । वि॒द्वांसः॑ । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । यतः॑ । ऊँ॒ इति॑ । आय॑न् । तत् । उत् । ई॒युः । आ॒ऽविश॑म् ॥अभिनक्षन्तः । अभि । ये । तम् । आनशुः । निधिम् । पणीनाम् । परमम् । गुहा । हितम् । ते । विद्वांसः । प्रतिचक्ष्य । अनृता । पुनः । यतः । ऊँ इति । आयन् । तत् । उत् । ईयुः । आविशम् ॥abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ | nidhim | paṇīnām | paramam | guhā | hitam | te | vidvāṃsaḥ | prati-cakṣya | anṛtā | punaḥ | yataḥ | oṃ iti | āyan | tat | ut | īyuḥ | āviśam