Sukta 2.24
अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् । तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥
अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् । तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥
áśmāsyam avatáṃ bráhmaṇas pátir mádhudhāram abhí yám ójasā́tṛṇat | tám evá víśve papire svardṛ́śo bahú sā́kaṃ sisicur útsam udríṇam ||
Brahmaṇaspati filled with force the rock-mouthed well, the honey-flowing spring; and all who behold the Sun drank of it, and together they poured it out abundantly as an upwelling fountain.
अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् । तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥अश्मआस्यम् । अवतम् । ब्रह्मणः । पतिः । मधुधारम् । अभि । यम् । ओजसा । अतृणत् । तम् । एव । विश्वे । पपिरे । स्वःदृशः । बहु । साकम् । सिसिचुः । उत्सम् । उद्रिणम् ॥aśma-āsyam | avatam | brahmaṇaḥ | patiḥ | madhu-dhāram | abhi | yam | ojasā | atṛṇat | tam | eva | viśve | papire | svaḥ-dṛśaḥ | bahu | sākam | sisicuḥ | utsam | udriṇam