Sukta 2.24
तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता । उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥
तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता । उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्व॑: ॥
tád devā́nāṃ devátamāya kártvam áśrathnan dṛḷhā́ ávradanta vīḷitā́ | úd gā́ ā́jad abhínad bráhmaṇā válam ágūhat támo ví acakṣayat svàr ||
This was the deed for the most divine among the gods: they loosened what was hard-bound and broke the firm resistances; the Cows rose upward; by the Word he cleft Vala, he drove away the darkness and made the Sun-world manifest.
तत् । दे॒वाना॑म् । दे॒वऽत॑माय । कर्त्व॑म् । अश्र॑थ्नन् । दृ॒ळ्हा । अव्र॑दन्त । वी॒ळि॒ता । उत् । गाः । आ॒ज॒त् । अभि॑नत् । ब्रह्म॑णा । व॒लम् । अगू॑हत् । तमः॑ । वि । अ॒च॒क्ष॒य॒त् । स्वरिति॑ स्वः॑ ॥तत् । देवानाम् । देवतमाय । कर्त्वम् । अश्रथ्नन् । दृळ्हा । अव्रदन्त । वीळिता । उत् । गाः । आजत् । अभिनत् । ब्रह्मणा । वलम् । अगूहत् । तमः । वि । अचक्षयत् । स्वरिति स्वः ॥tat | devānām | deva-tamāya | kartvam | aśrathnān | dṛḷhā | avradanta | vīḷitā | ut | gāḥ | ājat | abhinat | brahmaṇā | valam | agūhat | tamaḥ | vi | acakṣayat | svar itisvaḥ