Sukta 2.24
यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि । प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥
यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि । प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥
yó nantvā́ny ánamann y ójasó tā́dardhar manyúnā śámbārāṇi ví | prá acyāvayat ácyutā bráhmaṇas pátir ā́ cā́viśad vásumantaṃ ví párvatam ||
He who, by his force, bowed down the resisting obstacles, and by his soul’s ardent might shattered the strongholds of Śambara; Brahmaṇaspati made even the unshakable yield, and entered and opened out the treasure-bearing mountain.
यः । नन्त्वा॑नि । अन॑मत् । नि । ओज॑सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना॑ । शम्ब॑राणि । वि । प्र । अ॒च्य॒व॒य॒त् । अच्यु॑ता । ब्रह्म॑णः । पतिः॑ । आ । च॒ । अवि॑शत् । वसु॑ऽमन्तम् । वि । पर्व॑तम् ॥यः । नन्त्वानि । अनमत् । नि । ओजसा । उत । अदर्दः । मन्युना । शम्बराणि । वि । प्र । अच्यवयत् । अच्युता । ब्रह्मणः । पतिः । आ । च । अविशत् । वसुमन्तम् । वि । पर्वतम् ॥yaḥ | nantvāni | anamat | ni | ojasā | uta | adardaḥ | manyunā | śambarāṇi | vi | pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ | ā | ca | aviśat | vasu-mantam | v i | parvatam